परीक्षा से पहले विद्यार्थी करें ये काम, होगी उत्तम परिणाम की प्राप्ति
ऐसे में अगर किसी जातक को परीक्षा के परिणाम को लेकर भय या चिंता बनी हुई है तो वे मां सरस्वती की पूजा और ध्यान के साथ साथ अगर श्री सरस्वती कवचम् का संपूर्ण पाठ करते है तो उन्हें लाभ की प्राप्ति होती है और परीक्षा में भी उत्तम परिणाम मिलता है, तो आज हम आपके लिए लेकर आए है श्री सरस्वती कवचम् पाठ।
श्री सरस्वती कवचम्—
श्रृणु देवि! प्रवक्ष्यामि वाणीकवचमुत्तमम् ।
त्रैलोक्यमोहनं नाम दिव्यं भोगापवर्गदम् ॥ १॥
मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् ।
सर्वैश्वर्यप्रदं लोके सर्वाङ्गमविनिश्चितम् ॥ २॥
पठनाच्छ्रवणात् देवि! महापातकनाशनम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥
यद्धृत्वा कवचं ब्रह्मा विष्णुरीशः शचीपतिः ।
यमोऽपि वरुणश्चैव कुबेरोऽपि दिगीश्वराः ॥ ४॥
ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिसूदनः ।
शिवः संहरते विश्व जिष्णुः सुमनसां पतिः ॥ ५॥
दिगीश्वराश्च दिक्पाला यथावदनुभूतये ।
त्रैलोक्यमोहनं वक्ष्ये भोगमोक्षैकसाधनम् ॥ ६॥
सर्वविद्यामयं ब्रह्मविद्यानिधिमनुत्तमम् ।
त्रैलोक्यमोहनस्यास्य कवचस्य प्रकीर्तितः ॥ ७॥
विनियोगः –
ऋषिः कण्वो विराट् छन्दो देवी सरस्वती शुभा ।
अस्य श्रीसरस्वती देवता, ह्रीं बीजं, ॐ शक्तिः, ऐं कीलकं,
त्रिवर्गफलसाधने विनियोगः ।
ऋष्यादिन्यासः –
कण्वऋषये नमः शिरसि । विराट् छन्दसे नमः मुखे ।
देवीसरस्वत्यै नमः हृदि । ह्रीं बीजाय नमः गुह्ये ।
ॐ शक्तये नमः नाभौ । ऐं कीलकाय नमः पादयोः ।
त्रिवर्गफलसाधने विनियोगाय नमः सर्वाङ्गे॥
ॐ ऐं ह्रीं ह्रीं पातु वाणी शिरो मे सर्वदा सती ।
ॐ ह्रीं सरस्वती देवी भालं पातु सदा मम ॥ ८॥
ॐ ह्रीं भ्रुवौ पातु दुर्गा दैत्यानां भयदायिनी ।
ॐ ऐं ह्रीं पातु नेत्रे सर्वमङ्गलमङ्गला ॥ ९॥
ॐ ह्रीं पातु श्रोत्रयुग्मं जगदभयकारिणी ।
ॐ ऐं नासा पातु नित्यं विद्या विद्यावरप्रदा ॥ १०॥
ॐ ह्रीं ऐं पातु वक्त्रं वाग्देवी भयनाशिनी ।
अं आं इं ईं पातु दन्तान् त्रिदन्तेश्वर पूजिताः ॥ ११॥
उं ऊं ऋं ॠं ऌं ॡं एं ऐं पातु ओष्ठौ च भारती ।
ओं औं अं अः पातु कण्ठं नीलकण्ठाङ्कवासिनी ॥ १२॥
कं खं गं घं ङं पायान्मे चांसौ देवेशपूजिता ।
चं छं जं झं ञं मे पातु वक्षो वक्षःस्थलाश्रया ॥ १३॥
टं ठं डं ढं णं पायान्मे पार्श्वौ पार्श्वनिवासिनी ।
तं थं दं धं नं मे पातु मध्ये लोकेशपूजिता ॥ १४॥
पं फं बं भं मं पायान्मे नाभिं ब्रह्मेशसेविता ।
यं रं लं वं पातु गुह्य नितम्बप्रियवादिनी ॥ १५॥
शं षं सं हं कटिं पातु देवी श्रीवगलामुखी ।
ऊरू ळं क्षं सदा पातु सर्वाविद्याप्रदा शिवा ॥ १६॥
सरस्वती पातु जङ्घे रमेश्वरप्रपूजिता ।
ॐ ह्रीं ऐं ह्रीं पातु पादौ पादपीठनिवासिनी ॥ १७॥
विस्मारितं च यत् स्थानं यद्देशो नाम वर्जितः ।
तत्सर्वं पातु वागेशी मूलविद्यामयी परा ॥ १८॥
No comments